|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.154. अध्यायः 154
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति गृहस्थधर्मप्रतिपादकपृथिवीवासुदेवसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव॥ 13-154-1(87319)
भीष्म उवाच। 13-154-2x(7308)
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत॥ 13-154-2(87320)
संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान्।
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै॥ 13-154-3(87321)
वासुदेव उवाच। 13-154-4x(7309)
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखं भवेत्॥ 13-154-4(87322)
पृथिव्युवाच। 13-154-5x(7310)
ऋषयः पितरो देवा मनुष्याश्चैव माधव।
पूज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे॥ 13-154-5(87323)
सदा यज्ञेन देवांश्च सदाऽऽतिथ्येन मानुषान्।
छन्दतस्तर्पणेनापि पितॄन्युञ्जन्ति नित्यशः॥ 13-154-6(87324)
तेन ह्यृषिगणाः प्रीता ब्रह्मचयेणि चानघ।
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च॥ 13-154-7(87325)
कुर्यात्तथैव देवान्वै प्रियं मे मधुसूदन।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च॥ 13-154-8(87326)
पयोमूलफलैर्वाऽपि पितॄणां प्रीतिमावहेत्।
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि॥ 13-154-9(87327)
आग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्।
प्रजानां पतये चैव पृथग्घोमो विधीयते॥ 13-154-10(87328)
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्।
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च॥ 13-154-11(87329)
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः।
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव॥ 13-154-12(87330)
मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै।
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत्॥ 13-154-13(87331)
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत्॥ 13-154-14(87332)
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै।
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत्॥ 13-154-15(87333)
यदा श्राद्धं पितृभ्योपि दातुमिच्छेत मानवः।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि॥ 13-154-16(87334)
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः।
वेश्वदैवं ततः कुर्यात्पश्चाद्ब्राह्म्णभोजनम्॥ 13-154-17(87335)
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि।
अर्घ्यपूर्वं महाराज ततः प्रीणाति मानवान्।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते॥ 13-154-18(87336)
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्॥ 13-154-19(87337)
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्॥ 13-154-20(87338)
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्॥ 13-154-21(87339)
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि॥ 13-154-22(87340)
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते॥ 13-154-23(87341)
एतांस्तु धर्मान्गार्हस्थ्यान्यः कुर्यादनसूयकः।
स इहर्द्धिं परां प्राप्य प्रेत्य लोके महीयते॥ 13-154-24(87342)
भीष्म उवाच। 13-154-25x(7311)
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्।
तथा चकार सततं त्वमप्येवं सदाऽऽचर॥ 13-154-25(87343)
एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप।
इह लोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि॥ ॥ 13-154-26(87344)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपञ्चाशददिकशततमोऽध्यायः॥ 154 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-154-1 गार्हस्थ्यं गृहस्थयोग्यम्॥ 7-154-7 बलिकर्म वैश्वदेवः तत्र प्रागन्नमेव ग्राह्यम्॥ 7-154-15 भिक्षाद्वयं तथेति थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|